Εικόνες σελίδας
PDF
Ηλεκτρ. έκδοση

এমন কি দুই রাশি আছে যে তাহাদের পরস্পরের ঘাত তাহাদের বর্গান্তরের সহিত সমান হইবে ও তাহাদের বর্গযোগ পরস্পরের ঘনান্তরের সহিত সমান হইবে ৷

Law.

Morning Paper.

कश्चिद्ब्राह्मणः सत्यपि ब्राह्मणीपुत्रे वैश्यापुत्राय प्रतिग्रहलब्धां भुवं दत्तवान् । अथेोपरते पितरि ब्राह्मणीपुत्रे बलाद्भोक्तुमुपक्रममाणे वैश्यापुत्रोनरपतये व्यजिज्ञपत् । अथ विज्ञापितेन राज्ञा कोदृशोव्यवहारः प्रवर्त्तनीयः ।

सभ्यैरन्यायं बोधितोपि नरपतिर्यद्यन्यथा करोति तदा राज्ञोदोघाभवत्युत सभासदामुतानियुक्तानाम् ।

कस्यचिद्द्ब्राह्मणस्य चत्वारः पुत्राः सन्ति तेष्वेकः परिणीतायां ब्राह्मण्यामुत्पन्नः क्षैौ क्षत्रियासम्भतावन्यः शूद्रासमुद्भतः कन्याश्चासंस्कृता स्तिखस्तावेका स्वजातीयायामुत्पन्ना इतरे च वैश्याया मुत्पन्ने परलोकमुपगते धनिनि तदीय धने कीदृश्यंशकल्पना मिता

क्षरासम्मता ।

देवदत्तकृतं नष्टं सेतुं संस्कर्त्ती कामस्य हरिदासस्य किं कर्त्तव्यं व्यथ कस्मैचिदनिवेद्य सेतुं संस्करोति तदासैौ सेतुफलभाग्भवति न वा । किञ्चानिवेद्य क्षेत्रखामिने यदि कश्चित्परक्षेत्रे सेतुं प्रवर्त्तयेत्तदा क्षेत्रखामिसेतुप्रवर्त्तकयोः कः सेतुफलभाग्भवतीति ।

[ocr errors]

Afternoon Paper.

[ocr errors]

राज्ञा कीदृशोदूतोनियोक्तव्यः दूतविनियोगस्य किं प्रयोजनं किञ्च कामसमुत्थानि व्यसनानि कियन्ति कियन्ति वा क्रोधजानि कानि वा तेषामभिधानानि ।

कृत्स्नञ्चाष्टविधं कर्म्म पञ्चवर्गञ्च तत्त्वतः ।

च्अनुरागापरागौ च प्रचारं मण्डलस्य च ॥

इत्यस्य कुल्लूकभट्टसम्मता व्याख्या लिख्यताम् ।

केनोपायेन प्रणिधीनामन्तःपुरस्त्रीणाञ्च चेष्टितमवगन्तव्यं किञ्च क्षीणधनोऽपि न्यायानुवर्त्ती नरपतिः श्रोत्रियात्करमादातुमर्हति

नवा |

कश्चित् किञ्चिदृणं कृत्वोपरतः । व्यथोत्तमर्णविज्ञापितेन राज्ञाधमर्णपुत्रपौत्रयोषिद्ग्राहाणां मध्ये कऋणं दापनीयः ।

Logic.

FIRST CLASS.

Morning Paper.

सांख्यमते प्रधानं चेतनमचेतनंवा तस्य चेतनत्वे त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्म्मि । व्यक्तं तथा प्रधानमिति कथं सङ्गच्छते व्यचेतनत्वे च कथमस्य प्रसवधर्मित्वं प्रसवधर्म्मितायाहि चेतनप्रयत्नसापेक्षत्वात् चेतनारिक्के च प्रयत्नस्यासम्भवित्वात् नहि चेतनप्रयत्ननिरपेक्षा म्टत्तिका घटादिकमुत्पादयतीत्युभयथापि दोष स्तत् किमिह समाधानमिति ।

सवा एषपुरुषोटन्नरसमयइत्यादिश्रुतेः स्थलोटचं कृशोटहं गौरोटहं खञ्जोटहमित्यादिप्रतीतेश्च कायाकारपरिगतोभूतविशेष एवात्मा तथाच नासैौ नित्योनापि विभुरिति चाळीकविप्रतिपत्तैा किमुत्तरं नैयायिकानाम् ।

न्यायमते कर्टत्वादीनामात्मवृत्तित्वखीकारात् प्रकृतेः क्रियमाणानि गुणैः कर्म्मणि सर्व्वशः अहङ्कारविमूढात्मा कर्त्तीचमिति मन्यतइत्येतद्भगद्दाक्यं कथं सङ्गच्छते नहि नाभ्युपगमवाप्तवचनस्य ।

सांख्यमते उपमानस्य प्रामाण्यमस्ति न वा व्यस्ति चेत्तद्गणनावसरे कथं नोल्लिखितं नास्ति चेद्रासादृश्यज्ञानानन्तरं कथं गवयपदवाच्यताग्रहइति ।

Afternoon Paper.

के नामेश्वरसाक्षात्कारस्य मोक्षहेतुत्वं मन्यन्ते के च परमात्मनः सुखसम्बन्धाभावमभिदधानाः खात्मसाक्षात्कारस्यापवर्गहेतुतां खीकुर्व्वन्ति नैयायिकेरेतन्मतमादृतं न वा नोचेत् किं कारणमनादरस्य ।

व्यविद्यारूपोपाध्यवच्छिन्नस्य ब्रह्मणो विद्यारूपोपाधिविगमएव कैवल्यमिति केषां मतं कथं बा तन्मतमनादृतं नैयायिकैः

[ocr errors]

सिद्धयः किंखरूपाः कतिविधाश्च कानि वातासामभिधानानि विनोपदेशादिना प्राग्भवीयाभ्यासवशात्तत्त्वस्य खयमूहनं यत् सा सिद्धि रूहइत्यादि दानञ्च सिद्धिहेतुः धनादिदानेनाराधितोज्ञानी ज्ञानं प्रयच्छतीत्येतदन्तं यावत् कस्य व्याख्यानं कथम्बा वाचस्पतिमिश्रनास्मिन् कृतः कटाक्षः किमिति बा न तत्रोट्ङ्घाटितोदोषः ।

दृष्टवदानुश्रविकः सह्यविशुद्धिक्षयातिशययुक्तः तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानादित्यस्य वाचस्पतिमिश्रसम्मता व्याख्या लिख्यताम् ।

SECOND CLASS.

Morning Paper.

नैयायिकैरथापत्तेः प्रामाण्यं कथं न खीक्रियते तदनभ्युपगमे यत्र ज्योतिःशास्त्राद्देवदत्तस्य शतवर्षजोवित्वमवगतं तत्र ग्टहासतोट्स्य बहिः सत्त्वं केन प्रमाणेन साधनीयम् अनुमानेनचेत् कीदृशोटचानुमानप्रकारइति ।

|

शद्बोपमानयोर्नैव पृथक्प्रामाण्यमिष्यते । अनुमानगतार्थत्वादित्यस्य कोटर्थः । किञ्च लक्षणायाः किं लक्षणं का च युक्तिस्तत्स्वीकारे नैयायिकानां कस्श्चालङ्कारिकाभिमतलक्षणातोय्स्याविशेषः ।

[ocr errors]

दीर्घशष्कुलीभक्षणादौ घ्राणरासनस्पार्शनचाक्षुषश्रावणज्ञानानां यैौगपद्यान्मनोनैकमित्यत्र किमुत्तरं नैयायिकानाम् ।

व्यनिमित्ततोभावोत्पत्तिः कण्टकतैच्णादिदर्शनादिति चार्व्वीक विप्रतिपत्तैौ कच्चिदस्ति किमपि समाहितं भगवद्भिरक्षचरणैः ।

Afternoon Paper .

केनाखरसेन भ्रमभिन्नं ज्ञानमिति प्रथमलक्षणपरिहार पूर्व्वकं तद्दति तत्प्रकारकं ज्ञानमिति द्वितीयलक्षणानुसरणं द्वितीयलक्षणा

नुसरणे च कपालादौ संयोगादिना घटादिज्ञाने तिव्याप्तिः कथं वार्य्यतइति ।

साध्यवदन्यावृत्तित्वमिति व्याप्तिलक्षणे समवाय सम्बन्धेन वहिमतोवहेरवयवादन्यस्मिन्महानसादा धूमस्य सत्त्वादव्याप्तिः धूमवान्वहेरित्यत्र च साध्यवदन्यस्मिन् दादौ वट त्तित्वाभावादतिव्याप्तिश्च ते कथं वारणीये द्वितीयलक्षणानुसरणस्य वा किं प्रयोजनम् ।

चेष्टेन्द्रियार्थीश्रयः शरीरमित्यस्य सूत्रस्य विश्वनाथभट्टाचार्यसम्मता व्याख्या लिख्यताम् ।

तदत्यन्तविमोक्षो पवर्ग इत्यस्य सूत्रस्यार्थे लिख्यतां किञ्च एतत्स्वत्रस्थतत्पदेन किं पराम्टष्यतइति ।

[merged small][merged small][merged small][ocr errors][merged small][merged small][ocr errors][merged small]

JUNIOR SCHOLARSHIPS, 1851.

ALANKAR CLASS.

Literature.

Morning Paper.

सुतान यूयं किमु तस्य राज्ञः सुयोधनं वा न गुणैरतीताः । यस्त्यक्तवान् वः स वृथा बलाद्दा मोहं विधत्ते विषयाभिलाषः ॥ जहातु नैनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः । असाधुयोगाहि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥ पथचुतायां समितैौ रिपूणां धर्म्यां दधानेन धुरं चिराय । त्वया विपत्स्वप्यविपत्तिरम्यमाविष्कृतं प्रेम परं गुणेषु ॥ विधाय विध्वंसमनात्मनीनं शमैकवृत्तेर्भवतश्छलेन । प्रकाशितत्वन्मतिशीलसाराः कृतेोपकारा इव विद्दिषस्ते ॥ लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्य्यस्वबलैर्विपक्षः । यतः प्रकर्षीय विधिर्विधेयः प्रकर्षतन्त्राहि रणे जयश्रीः ॥ एषां व्याख्या लिख्यताम् ।

Afternoon Paper.

राजा । य कस्मादिक्रम्य न गृहीतः ।

चाणक्यः । वृषल राक्षसः खल्वसैौ विक्रम्य निगृह्यमाणः स्वयं वा विनश्येत् युष्मद्बलानि वा विनाशयेत् एवं सत्युभयथापि दोषः ।

सहि भृशमभियुक्तोयधुपेयाद्दिनाशं
ननु सृषल वियुक्तस्तादृशेनासि पुसा ।
ब्यथ तव बलमुख्यान्नाशयेत् सापि पीडा
वनगजइव तस्मात् सोट्भ्युपायैर्विनेयः ॥

पश्य ।

राजा । न शक्नुमेोवयमार्य्यस्य वाचा वाचमतिशयितुं सर्वथा अमात्यराक्षसएवात्र प्रशस्यते 1

N

« ΠροηγούμενηΣυνέχεια »